ते सी॑षपन्त॒ जोष॒मा यज॑त्रा ऋ॒तस्य॒ धारा॑ः सु॒दुघा॒ दुहा॑नाः ।
ज्येष्ठं॑ वो अ॒द्य मह॒ आ वसू॑ना॒मा ग॑न्तन॒ सम॑नसो॒ यति॒ ष्ठ ॥
ते । सी॒ष॒प॒न्त॒ । जोष॑म् । आ । यज॑त्राः । ऋ॒तस्य॑ । धाराः॑ । सु॒ऽदुघाः॑ । दुहा॑नाः ।
ज्येष्ठ॑म् । वः॒ । अ॒द्य । महः॑ । आ । वसू॑नाम् । आ । ग॒न्त॒न॒ । सऽम॑नसः । यति॑ । स्थ ॥
यजत्राः यजनीयाः ते इन्द्रादयोदेवाः ऋतस्योदकस्य सुदुघाः सुखेन दोग्धुं शक्याः धाराः दुहानाः वर्षन्तः जोषं पर्याप्तं यथा भवति तथा आसीषपन्त सपतिः परिचरणार्थः स्तुतिभिरासमन्तात्पर्यचीचरन् अस्मान् परिचरणं कुर्वन्तु स्वीकुर्वंत्वितियावत् अद्यास्मिन्दिने हे देवाः वसूनां धनानां मध्ये ज्येष्ठं श्रेष्ठं वोयुष्मदीयं महो महनीयं धनं आगच्छतु यूयमपि समनसस्तुल्यमतयः सन्तः आगन्तन आगच्छत हे देवाः यूयं यतिष्ठ आगन्तनेति संबन्धः ॥ ४ ॥