आ मां मि॑त्रावरुणे॒ह र॑क्षतं कुला॒यय॑द्वि॒श्वय॒न्मा न॒ आ ग॑न् ।
अ॒ज॒का॒वं दु॒र्दृशी॑कं ति॒रो द॑धे॒ मा मां पद्ये॑न॒ रप॑सा विद॒त्त्सरु॑ः ॥
आ । माम् । मि॒त्रा॒व॒रु॒णा॒ । इ॒ह । र॒क्ष॒त॒म् । कु॒ला॒यय॑त् । वि॒ऽश्वय॑त् । मा । नः॒ । आ । ग॒न् ।
अ॒ज॒का॒ऽवम् । दुः॒ऽदृशी॑कम् । ति॒रः । द॒धे॒ । मा । माम् । पद्ये॑न । रप॑सा । वि॒द॒त् । त्सरुः॑ ॥
हे मित्रावरुणा मित्रावरुणौ युवां इहास्मिन्लोके मां आरक्षतं आभिमुख्येन पालयतं कुलाययत् कुलायं स्थानं तत्कुर्वन् विश्वयत् विशेषेण वर्धमानं विषं नोस्मान् आ आभिमुख्येन मागन् मागमत् मागच्छतु तथा अजकावं अजकानाम रोगविशेषः तद्वत् दुर्दृशीकं दुर्दर्शनं विषं तिरोदधे तोरोधत्तां नश्यत्वित्यर्थः तथा त्सरुः छड्मगामी जिह्मगः सर्पइत्यर्थः मां पद्येन पादभवेन रपसा रपिः शब्दकर्मा शब्देन माविदत् माजानतु ॥ १ ॥