तु॒र॒ण्यवोऽङ्गि॑रसो नक्षन्त॒ रत्नं॑ दे॒वस्य॑ सवि॒तुरि॑या॒नाः ।
पि॒ता च॒ तन्नो॑ म॒हान्यज॑त्रो॒ विश्वे॑ दे॒वाः सम॑नसो जुषन्त ॥
तु॒र॒ण्यवः॑ । अङ्गि॑रसः । न॒क्ष॒न्त॒ । रत्न॑म् । दे॒वस्य॑ । स॒वि॒तुः । इ॒या॒नाः ।
पि॒ता । च॒ । तत् । नः॒ । म॒हान् । यज॑त्रः । विश्वे॑ । दे॒वाः । सऽम॑नसः । जु॒ष॒न्त॒ ॥
तुरण्यवः यज्ञादिकर्मसु त्वरिताः अंगिरसः एतन्नामकाऋषयः इयानाः सवितारं याचमानाः सन्तः सवितुः प्रेरकस्य देवस्य संबन्धिरत्नं रमणीयं यद्धनं नक्षन्त आश्नुवन्त उत्तरार्धगत तच्छब्दापेक्षया यच्छब्दोध्याह्रियते यजत्रः यजनशीलः महान् प्रभूतः पिताच वसिष्ठस्य पितृभूतोवरुणः यद्वा सर्वेषां पिता प्रजापतिः विश्वे सर्वे देवाः समनसः समानमनस्काः तत्तादृशं रत्नं नोस्मान् जुषन्त सेवयंतु यद्वा नोस्मभ्यं ददतु ॥ ३ ॥
प्रद्यावायज्ञैरिति तृचात्मकं विंशं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभं द्यावापृथिव्यं अनुक्रम्यतेचप्रद्यावा द्यावापृथिव्यमिति । चतुर्थेहनि वैश्व- देवशस्त्रे इदं द्यावापृथिव्यनिविद्धानं सूत्रितंचाआदेवोयातु प्रद्यावेति वासिष्ठमिति । द्यावापृथिव्येपशौ वपापुरोडाशयोः प्रद्यावेति द्वेऋ- चौयाज्ये सूत्रितं च-प्रद्यावायज्ञैःपृथिवीनमोभिरिति द्वे इति ।