कृ॒ते चि॒दत्र॑ म॒रुतो॑ रणन्तानव॒द्यास॒ः शुच॑यः पाव॒काः ।
प्र णो॑ऽवत सुम॒तिभि॑र्यजत्रा॒ः प्र वाजे॑भिस्तिरत पु॒ष्यसे॑ नः ॥
कृ॒ते । चि॒त् । अत्र॑ । म॒रुतः॑ । र॒ण॒न्त॒ । अ॒न॒व॒द्यासः॑ । शुच॑यः । पा॒व॒काः ।
प्र । नः॒ । अ॒व॒त॒ । सु॒म॒तिऽभिः॑ । य॒ज॒त्राः॒ । प्र । वाजे॑भिः । ति॒र॒त॒ । पु॒ष्यसे॑ । नः॒ ॥
अत्रास्मिन्कृते चित् अस्मदीये यज्ञकर्मण्येव मरुतोरणन्त रमन्ताम् । कीदृशामरुतः अनवद्यासः अनिंदिताः शुचयोदीप्तियुक्ताः पावकाः शो- धकाः एवंभूताइति । किंच हेमरुतः यजत्राः यजनीया यूयं नोस्मान् सुमतिभिरनुग्रहबुद्धिभिः सुष्टुतिभिर्हेतुभिर्वा प्रावत प्रकर्षेण पालयत तथा नोस्मान्वाजेभिर्वाजैरन्नैः पुष्यसे पोष्यार्थं प्रतिरत प्रवर्धयत ॥ ५ ॥