न॒हि व॑श्चर॒मं च॒न वसि॑ष्ठः परि॒मंस॑ते ।
अ॒स्माक॑म॒द्य म॑रुतः सु॒ते सचा॒ विश्वे॑ पिबत का॒मिनः॑ ॥
न॒हि । वः॒ । च॒र॒मम् । च॒न । वसि॑ष्ठः । प॒रि॒ऽमंस॑ते ।
अ॒स्माक॑म् । अ॒द्य । म॒रु॒तः॒ । सु॒ते । सचा॑ । विश्वे॑ । पि॒ब॒त॒ । का॒मिनः॑ ॥
वसिष्ठऋषिः वोयुष्माकं मध्ये चरमं चन अवरमपि नहि परिमंसते वर्जयित्वा न स्तौति किंतु सर्वानेव युष्मान्स्तौतीत्यर्थः अद्यास्मिन् दिने अस्माकमस्म दीये सुते सोमे अभिषुते सति हे मरुतः कामिनः सोमं कामयमानाः विश्वे यूयं सचा संगत्य पिबत पानं कुरुत ॥ ३ ॥