स॒स्वश्चि॒द्धि त॒न्व१॒॑ः शुम्भ॑माना॒ आ हं॒सासो॒ नील॑पृष्ठा अपप्तन् ।
विश्वं॒ शर्धो॑ अ॒भितो॑ मा॒ नि षे॑द॒ नरो॒ न र॒ण्वाः सव॑ने॒ मद॑न्तः ॥
स॒स्वरिति॑ । चि॒त् । हि । त॒न्वः॑ । शुम्भ॑मानाः । आ । हं॒सासः॑ । नील॑ऽपृष्ठाः । अ॒प॒प्त॒न् ।
विश्व॑म् । शर्धः॑ । अ॒भितः॑ । मा॒ । नि । से॒द॒ । नरः॑ । न । र॒ण्वाः । सव॑ने । मद॑न्तः ॥
सस्वः अन्तर्हितामरुतः तन्वः स्वकीयान्यंगानि शुंभमानाः अलंकरणैः शोभयन्तो मरुतः नीलपृष्ठाः असितवर्णाः हंसासश्चित् हंसाइव आपप्तन् आपतन्तु आगच्छतु । विश्वं शर्धः व्याप्तोमरुद्गणः मा मां अभितः समन्तात् निषेद निषीदतु तत्रदृष्टान्तःसवनेस्मदीये यज्ञे मदन्तोहृष्यन्तः रण्वाः रमणीयाः नरोन मनुष्याइव तद्वत् ॥ ७ ॥ साकमेधेषु मरुद्भ्यः सान्तपनेभ्यइत्यस्य योनोमरुतइति पूर्वानुवाक्या सान्तपनाइदमितियाज्या तथाचसूत्रितं-सान्तपनाइदंहविर्यो- नोमरुतोअभिदुर्हृणायुरिति ।