वि ये द॒धुः श॒रदं॒ मास॒मादह॑र्य॒ज्ञम॒क्तुं चादृच॑म् ।
अ॒ना॒प्यं वरु॑णो मि॒त्रो अ॑र्य॒मा क्ष॒त्रं राजा॑न आशत ॥
वि । ये । द॒धुः । श॒रद॑म् । मास॑म् । आत् । अहः॑ । य॒ज्ञम् । अ॒क्तुम् । च॒ । आत् । ऋच॑म् ।
अ॒ना॒प्यम् । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । क्ष॒त्रम् । राजा॑नः । आ॒श॒त॒ ॥
ये मित्रादयः शरदं संवत्सरं विदधुः अकुर्वन् आत् अनन्तरमेव मासं अनन्तरं अहः अनन्तरमहःसाध्यं यज्ञं आत् अनन्तरमक्तुं रात्रिञ्च ऋचं मन्त्रांश्च यद्वा सर्वत्र आदित्ययमपीत्यर्थे वर्तते तथा सति क्रमः अविवक्षितः ते वरुणोमित्रोर्यमा च त्रयः अनाप्यमन्यैरप्राप्तं क्षत्रं बलं राजानः राजमानाः आशत व्याप्तवन्तः ॥ ११ ॥