म॒हे नो॑ अ॒द्य सु॑वि॒ताय॑ बो॒ध्युषो॑ म॒हे सौभ॑गाय॒ प्र य॑न्धि ।
चि॒त्रं र॒यिं य॒शसं॑ धेह्य॒स्मे देवि॒ मर्ते॑षु मानुषि श्रव॒स्युम् ॥
म॒हे । नः॒ । अ॒द्य । सु॒वि॒ताय॑ । बो॒धि॒ । उषः॑ । म॒हे । सौभ॑गाय । प्र । य॒न्धि॒ ।
चि॒त्रम् । र॒यिम् । य॒शस॑म् । धे॒हि॒ । अ॒स्मे इति॑ । देवि॑ । मर्ते॑षु । मा॒नु॒षि॒ । श्र॒व॒स्युम् ॥
अद्य नोस्माकं महे महते सुविताय सुखप्राप्तये सुखगमनायवा बोधि भव । किञ्च हे उषः महे महते सौभगाय सौभाग्याय प्रयन्धि प्रयच्छ अस्मान् । किंच चित्रं चायनीयं यशसं यशोयुक्तं रयिं धनं धेहि धारय । अस्मे अस्मासु हे मानुषि मनुष्यहिते देवि मर्तेष्वस्मासु श्रवस्युं अन्नवन्तं पुत्रं धेहीत्यनुषङ्गः ॥ २ ॥