प्रति॑ त्वा॒द्य सु॒मन॑सो बुधन्ता॒स्माका॑सो म॒घवा॑नो व॒यं च॑ ।
ति॒ल्वि॒ला॒यध्व॑मुषसो विभा॒तीर्यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥
प्रति॑ । त्वा॒ । अ॒द्य । सु॒ऽमन॑सः । बु॒ध॒न्त॒ । अ॒स्माका॑सः । म॒घऽवा॑नः । व॒यम् । च॒ ।
ति॒ल्वि॒ला॒यध्व॑म् । उ॒ष॒सः॒ । वि॒ऽभा॒तीः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥
हे उषसस्त्वात्वां अद्यास्मिन्काले सुमनसः शोभनस्तुतिकामघवानो हविर्लक्षणान्नवन्तोस्माकासोस्माका अस्मदीयाः पुरुषा ऋत्विजः यद्वा मघवानइत्येतत् वयमित्येतस्य विशेषणं हविष्मन्तोवयं प्रतिबुधन्त प्रत्यबोधयन् स्तुतिभिः । हे उषसोयूयंच विभातीः व्युच्छंत्यः सत्यस्तिल्विलायध्वं जगत् स्रिग्धभूमिकं कुरुत तिलस्रेहने इत्यस्मात्तिलुः तिलुरिलाभूमिः यस्य तत्तिल्विलं तत्कुरुत । शिष्टं स्पष्टम् ॥ ५ ॥ व्युषाआवइति पञ्चर्चं नवमं सूक्तं वसिष्ठस्यार्षमुषस्यं त्रैष्टुभं व्युषाइत्यनुक्रमणिका प्रातरनुवाकाश्विनशस्त्रयोरुक्तोविनियोगः ।