ताव॑दुषो॒ राधो॑ अ॒स्मभ्यं॑ रास्व॒ याव॑त्स्तो॒तृभ्यो॒ अर॑दो गृणा॒ना ।
यां त्वा॑ ज॒ज्ञुर्वृ॑ष॒भस्या॒ रवे॑ण॒ वि दृ॒ळ्हस्य॒ दुरो॒ अद्रे॑रौर्णोः ॥
ताव॑त् । उ॒षः॒ । राधः॑ । अ॒स्मभ्य॑म् । रा॒स्व॒ । याव॑त् । स्तो॒तृऽभ्यः॑ । अर॑दः । गृ॒णा॒ना ।
याम् । त्वा॒ । ज॒ज्ञुः । वृ॒ष॒भस्य॑ । रवे॑ण । वि । दृ॒ळ्हस्य॑ । दुरः॑ । अद्रेः॑ । औ॒र्णोः॒ ॥
हे उषोयावद्राधोधनं स्तोतृभ्यः पूर्वं अरदोदत्तवत्यसि तावद्राधोधनं गृणाना स्तूयमानाः अस्मभ्यमपि रास्व देहि यां त्वा त्वां वृषभस्य रवेण लुप्तोपमैषा वृषभस्येति कर्मणिष्ठी वृषभं रवेणेव त्वां प्रकाशेन जज्ञुः जानन्ति प्राणिनः । अथवा वृषभस्यप्रवृद्धस्य स्तोत्रस्य रवेण शब्देन जज्ञुः ज्ञापयन्ति दृह्ळस्य दृढस्याद्रेः दुरोद्वाराणि पणिभिर्गाः प्रवेश्य पिहितानि व्यौर्णोः विव्रतान्यकरोः ॥ ४ ॥