वसि॑ष्ठं ह॒ वरु॑णो ना॒व्याधा॒दृषिं॑ चकार॒ स्वपा॒ महो॑भिः ।
स्तो॒तारं॒ विप्र॑ः सुदिन॒त्वे अह्नां॒ यान्नु द्याव॑स्त॒तन॒न्यादु॒षासः॑ ॥
वसि॑ष्ठम् । ह॒ । वरु॑णः । ना॒वि । आ । अ॒धा॒त् । ऋषि॑म् । च॒का॒र॒ । सु॒ऽअपाः॑ । महः॑ऽभिः ।
स्तो॒तार॑म् । विप्रः॑ । सु॒दि॒न॒ऽत्वे । अह्ना॑म् । यात् । नु । द्यावः॑ । त॒तन॑न् । यात् । उ॒षसः॑ ॥
एवं वसिष्ठेनात्मनोक्ते यद्वरुणेन कृतं तद्दर्शयति वसिष्ठं ह वसिष्ठं खलु वरुणोनावि स्वकीयायां आ अधात् आरोहयत् तथा तमृषिं अवोभिः रक्षणैः स्वपां स्वपसं शोभनकर्माणं चकार वरुणः कृतवान् अपिच विप्रोमेधावी वरुणः अह्नां दिवसानां मध्ये सुदिनत्वे यत्फलत्वेन शोभनदिनत्वं तत्र स्तोतारं अस्थापयदितिशेषः किंकुर्वन् यात् यातोगच्छतोद्यावोदिवसान् यात् यातीः उषासः उषसाउपलक्षिता- रात्रीश्च नु क्षिप्रं ततनन् सूर्यात्मना विस्तारयन् ॥ ४ ॥