इरा॑वती धेनु॒मती॒ हि भू॒तं सू॑यव॒सिनी॒ मनु॑षे दश॒स्या ।
व्य॑स्तभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखै॑ः ॥
इरा॑वती॒ इतीरा॑ऽवती । धे॒नु॒मती॒ इति॑ धे॒नु॒ऽमती॑ । हि । भू॒तम् । सु॒य॒व॒सिनी॒ इति॑ सु॒ऽय॒व॒सिनी॑ । मनु॑षे । द॒श॒स्या ।
वि । अ॒स्त॒भ्नाः॒ । रोद॑सी॒ इति॑ । वि॒ष्णो॒ इति॑ । ए॒ते इति॑ । दा॒धर्थ॑ । पृ॒थि॒वीम् । अ॒भितः॑ । म॒यूखैः॑ ॥
हे द्यावापृथिव्यौ मनुषे स्तुवते मनुष्याय दशस्या दित्सया युक्ते युवां इरावतां अन्नवत्यौ धेनुमती गोमत्यौ सूयवसिनी शोभन- यवसेच भूतम भूतम् हिशब्दः प्रसिद्धौ विष्णुना विक्रान्तत्वात् युवामेव खलु पूर्वमभूतमित्यर्थः । हे विष्णो एते इमे रोदसी द्यावापृथिव्यौ व्यस्तभ्नाः विविधमधारयः पृथिवीमूर्ध्वमुखत्वेन द्याम धोमुखत्वेनेति विविधत्वम् । अपिच पृथिवीं प्रथितामिमां भूमिं अभितः सर्वत्रस्थितैर्मयूखैः पर्वतैर्दाधर्थ धारितवानसि यथा न चलति तथा दृढीकृतवानित्यर्थः पर्वताहि विष्णोः स्वभूताः विष्णुःपर्वता- नामधिपतिरितिश्रुतेः ॥ ३ ॥