न यं शु॒क्रो न दुरा॑शी॒र्न तृ॒प्रा उ॑रु॒व्यच॑सम् ।
अ॒प॒स्पृ॒ण्व॒ते सु॒हार्द॑म् ॥
न । यम् । शु॒क्रः । न । दुःऽआ॑शीः । न । तृ॒प्राः । उ॒रु॒ऽव्यच॑सम् ।
अ॒प॒ऽस्पृ॒ण्व॒ते । सु॒ऽहार्द॑म् ॥
उरुव्यचसं विस्तीर्णव्यापनं सुहार्दं सुहृदयं यमिन्द्रं शुक्रः रसाधिक्येन दीप्तः सोमः नापस्पृणुते स्पृप्रीतिबलयोः अत्रोपसर्गवशात् प्रीत्य- भावे वर्तते नञाच प्रीत्यभावोनिवार्यते नप्रीणयतीति न अपितु प्रीणयत्येव । तथा दुराशीः दुःखेन निष्पाद्याआशीः आश्रयणद्रव्यं यस्य तार्तीयसवनिकस्य सोमस्य सोपि यमिन्द्रं नापस्पृणुते प्रीणयत्येव तृप्राः तर्पकाः अन्ये चरुपुरोडाशादयश्च यमिन्द्रं नापस्पृण्वते न न प्रीणयन्ति अपितु प्रीणयन्त्येव । तमिन्द्रं स्तुमइति शेषः । यद्वा अपेत्युपसर्गोधात्वर्थानुवादकः यमिन्द्रंशुक्रादयोनापस्पृण्वते न प्रीणयन्ति उरुव्यचसमिति हेतुगर्भविशोषणं यतोयमिन्द्र उरुव्यचाः विस्तीर्णव्याप्तिकः अतः कारणात् अपर्याप्ताः सन्तः शुक्रादयः प्रीणयितुं नशक्रुवन्तीति भावः ॥ ५ ॥