भू॒याम॑ ते सुम॒तौ वा॒जिनो॑ व॒यं मा नः॑ स्तर॒भिमा॑तये ।
अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा नः॑ सु॒म्नेषु॑ यामय ॥
भू॒याम॑ । ते॒ । सु॒ऽम॒तौ । वा॒जिनः॑ । व॒यम् । मा । नः॒ । स्तः॒ । अ॒भिऽमा॑तये ।
अ॒स्मान् । चि॒त्राभिः॑ । अ॒व॒ता॒त् । अ॒भिष्टि॑ऽभिः । आ । नः॒ । सु॒म्नेषु॑ । य॒म॒य॒ ॥
हे इन्द्र ते तव सुमतौ शोभनायां मतौ अनुग्रहबुद्धौ वाजिनोहविष्मन्तोवयं भूयाम वर्तमानाभवेम अभिमातये अभिमन्यतइत्यभिमातिः शत्रुः तस्मै तदर्थं नोस्मान् मा स्तः माहिंसीः स्तृङ् हिंसायाम् माङिलुङि छान्दसश्च्लेर्लुक् । अपितु अभिष्टिभिः अभ्येषणीयाभिः प्रार्थनी- याभिश्चित्राभिश्चायनीयाभिः बहुविधाभिर्वा त्वदीयाभिरूतिभिः अस्मानवतात् अव रक्ष । तथा नोस्मान् सुम्नेषु सुखेषु आयामय आयतान् कुरु सर्वदा सुखिनएव कुरु ॥ २ ॥