दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् ।
वि भा॒नुं वि॒श्वधा॑तनत् ॥
दू॒रात् । इ॒हऽइ॑व । यत् । स॒ती । अ॒रु॒णऽप्सुः॑ । अशि॑श्वितत् ।
वि । भा॒नुम् । वि॒श्वधा॑ । अ॒त॒न॒त् ॥
यस्य निःश्वसितं वेदा योवेदेभ्योखिलंजगत् । निर्ममे तमहं वन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥
अथाष्टमोव्याख्यातुमारभ्यते । अष्टमेमण्डले प्रथमेनुवाके चत्वारिसूक्तानि व्याकृतानि । दूरादित्येकोनचत्वारिंशदृचं पञ्चमं सूक्तं कण्वगोत्रस्य ब्रह्मातिथेरार्षम् । आदितः षट् त्रिंशद्गायत्र्यः । ततोद्वे बृहत्यौ । अन्तिमानुष्टुप् । अन्त्येषु पञ्चस्वर्धर्चेषु चेदिपुत्रस्य कशुना- म्नोराज्ञोदानं स्तूयते । अतस्तद्देवताकाः । शिष्टाआश्विन्यः तथाचानुक्रान्तम्-दूरादेकान्नचत्वारिंशद्ब्र्ह्मातिथिराश्विनं द्विबृहत्यनुष्टुबन्तं अन्त्याः पञ्चार्धर्चाश्चैद्यस्य कशोर्दानस्तुतिरिति । प्रातरनुवाकाश्विनशस्त्रयोराश्विने क्रतौ गायत्रे छन्दसि अन्त्यतृचवर्जमिदं सूक्तम् । सूत्र्यतेहि-दूरादिहेवेतितिस्रउद्धरेदिति ।
दूरात् दूरतएव विप्रकृष्टएव नभसः प्राक् प्रदेशे वर्तमाना इहेवसती इहसमीपे विद्यमानेव अस्तेः शतरि श्नसोरल्लोपे उगितश्चेतिङीप् शतुरनुमइतिनद्याउदात्तत्वम् । अरुणप्सुः आरोचमानरूपा ईदृशीउषाः यद्यदा अशिश्वितत् अश्वेतयत् श्वितावर्णे अस्मात् ण्यन्तात् लुङिचङिरूपम् यद्वृत्तान्नित्यमितिनिघातप्रतिषेधः । तदा भानुं दीप्तिं विश्वधा बहुविधां व्यतनत् विस्तारितवती तनोतेर्व्यत्ययेन शप् ईदृशीमुषसम् हे अश्विनौ सचेथे इति उत्तरयैकवाक्यता । यद्वा प्रातरनुवाके उषस्येन काण्डेन उषाः स्तुता सती प्रादुर्बभूव हे अश्विनौ संशिष्यमाणमाश्विनं क्रतुं श्रोतुं युवामपि प्रादुर्भवतमिति अध्याहारेण वाक्यं पूरणीयम् ॥ १ ॥