अह॑न्वृ॒त्रमृची॑षम और्णवा॒भम॑ही॒शुव॑म् ।
हि॒मेना॑विध्य॒दर्बु॑दम् ॥
अह॑न् । वृ॒त्रम् । ऋची॑षमः । औ॒र्ण॒ऽवा॒भम् । अ॒ही॒शुव॑म् ।
हि॒मेन॑ । अ॒वि॒ध्य॒त् । अर्बु॑दम् ॥
ऋचीषमो ऋचा दीप्त्यासमइन्द्रो वृत्रं वृत्रनामकं शत्रुमहन् अहनत् जघान तथा और्णवाभमौर्णवाभनामकमहीशुवमहीशुवनामकंच शत्रुमहन् तथा हिमेन तुषारेणोदकेन वार्बुदं मेघमविध्यत् ॥ २६ ॥