अग्ने॒ मन्मा॑नि॒ तुभ्यं॒ कं घृ॒तं न जु॑ह्व आ॒सनि॑ ।
स दे॒वेषु॒ प्र चि॑किद्धि॒ त्वं ह्यसि॑ पू॒र्व्यः शि॒वो दू॒तो वि॒वस्व॑तो॒ नभ॑न्तामन्य॒के स॑मे ॥
अग्ने॑ । मन्मा॑नि । तुभ्य॑म् । कम् । घृ॒तम् । न । जु॒ह्वे॒ । आ॒सनि॑ ।
सः । दे॒वेषु॑ । प्र । चि॒कि॒द्धि॒ । त्वम् । हि । असि॑ । पू॒र्व्यः । शि॒वः । दू॒तः । वि॒वस्व॑तः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
हे अग्ने तुभ्यं त्वदर्थं आसनि आस्ये कं घृतं न यथा सुखकरं घृतं जुह्वत्यन्ये तद्वदहमपि तवास्ये मन्मानि मननीयानि स्तोत्राणि जुह्वे जुहोमि । सत्वं देवेषु देवानां मध्ये प्रचेकिद्धि अस्मदीयाः स्तुतीर्जानीहि । हि अपिच त्वं पूर्व्यः प्रत्नोसि शिवः सुखकरश्चासि विवस्वतो दूतश्चासि । सिद्धमन्यत् ॥ ३ ॥