तमू॒ षु स॑म॒ना गि॒रा पि॑तॄ॒णां च॒ मन्म॑भिः ।
ना॒भा॒कस्य॒ प्रश॑स्तिभि॒र्यः सिन्धू॑ना॒मुपो॑द॒ये स॒प्तस्व॑सा॒ स म॑ध्य॒मो नभ॑न्तामन्य॒के स॑मे ॥
तम् । ऊं॒ इति॑ । सु । स॒म॒ना । गि॒रा । पि॒तॄ॒णाम् । च॒ । मन्म॑ऽभिः ।
ना॒भा॒कस्य॑ । प्रश॑स्तिऽभिः । यः । सिन्धू॑नाम् । उप॑ । उ॒त्ऽअ॒ये । स॒प्तऽस्व॑सा । सः । म॒ध्य॒मः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥
तमु तमेव वरुणं समना समानया गिरा स्तुत्या स्वभिष्टौमि पितॄणां मन्मभिः स्तोमैश्चाभिष्टौमि नाभाकस्य ऋषेः प्रशस्तिभिः स्तोत्रैश्चाभिष्टौमि सिन्धूनां स्यन्दमानानां नदीनां उप समीपे उदये गद्गच्छति यश्च सप्तस्वसा समध्यमइति वाग्भिर्निरुच्यते अन्यके दुर्धियः शत्रवः समे सर्वे नभन्तां माभूवन् । तथाचयास्कः-तंस्वभिष्टौमि समानया गिरा गीत्या स्तुत्या पितॄणाञ्च मननीयैः स्तोमैर्नाभाकस्य प्रशस्तिभिः ऋषिर्नाभाकोबभूव यःस्य- न्दमानानामासामपामुपोदयेसप्तस्वसारमेनमाह वाग्भिः समध्यमइति निरुच्यतेथैषएवभवति नभन्तामन्यकेसमे माभूवन्नन्यकेसर्वे येनोद्विषन्तिदु- र्धियः पापधियः पापसंकल्पाइति ॥ २ ॥