इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं॑ वरुण॒ सं शि॑शाधि ।
ययाति॒ विश्वा॑ दुरि॒ता तरे॑म सु॒तर्मा॑ण॒मधि॒ नावं॑ रुहेम ॥
इ॒माम् । धिय॑म् । शिक्ष॑माणस्य । दे॒व॒ । क्रतु॑म् । दक्ष॑म् । व॒रु॒ण॒ । सम् । शि॒शा॒धि॒ ।
यया॑ । अति॑ । विश्वा॑ । दुः॒ऽइ॒ता । तरे॑म । सु॒ऽतर्मा॑णम् । अधि॑ । नाव॑म् । रु॒हे॒म॒ ॥
हे देव द्योतमान वरुण इमां धियमिदंकर्म शिक्षमाणस्यानुतिष्ठतोमम क्रतुं प्रज्ञानं दक्षं बलंच संशिशाधि तीक्ष्णीकुरु यया नावा यज्ञरूपया विश्वा स- र्वाणि दुरिता दुरितान्यतितरेम तां सुतर्माणं सुष्ठुतारयित्रीं यज्ञरूपां नावमधिरुहेम वयमारुहेम दुःखसागरतरणे हेतुत्वाद्यज्ञोनौरिति अत्रव्यपदि- श्यते ॥ ३ ॥