उ॒त त्वाब॑धिरं व॒यं श्रुत्क॑र्णं॒ सन्त॑मू॒तये॑ ।
दू॒रादि॒ह ह॑वामहे ॥
उ॒त । त्वा॒ । अब॑धिरम् । व॒यम् । श्रुत्ऽक॑र्णम् । सन्त॑म् । ऊ॒तये॑ ।
दू॒रात् । इ॒ह । ह॒वा॒म॒हे॒ ॥
उतापिच हे इन्द्र अबधिरं अनुपहतश्रोत्रेन्द्रियं अतएव श्रुत्कर्णं श्रवणपरकर्णं सन्तं त्वा त्वां वयं त्रिशोकाइह यज्ञे ऊतये रक्षणाय दूराद्धवामहे ह्वयामः ॥ १७ ॥