अपा॑म॒ सोम॑म॒मृता॑ अभू॒माग॑न्म॒ ज्योति॒रवि॑दाम दे॒वान् ।
किं नू॒नम॒स्मान्कृ॑णव॒दरा॑ति॒ः किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥
अपा॑म । सोम॑म् । अ॒मृताः॑ । अ॒भू॒म॒ । अग॑न्म । ज्योतिः॑ । अवि॑दाम । दे॒वान् ।
किम् । नू॒नम् । अ॒स्मान् । कृ॒ण॒व॒त् । अरा॑तिः । किम् । ऊं॒ इति॑ । धू॒र्तिः । अ॒मृ॒त॒ । मर्त्य॑स्य ॥
हे अमृत अमरण सोम त्वामपाम पानं करवाम कुर्मः । ततः अमृताअभूम भवेम । यस्मात्त्वममृतः अतस्तवपानाद्वयमप्यमृताः स्याम । पश्चात् ज्योतिः द्योतमानं स्वर्गमगन्म अविदाम ज्ञातवन्तो देवान्वयम् । तथाभूतानस्मान्नुनमिदानीं अरातिः शत्रुः किं कृणवत् कुर्यात् किमु किंवा मर्त्य- स्येदानीं मनुष्यभूतस्य मम धूर्तिर्हिंसकः किं कृणवत् कुर्यात् ॥ ३ ॥