अ॒ग्निं न मा॑ मथि॒तं सं दि॑दीप॒ः प्र च॑क्षय कृणु॒हि वस्य॑सो नः ।
अथा॒ हि ते॒ मद॒ आ सो॑म॒ मन्ये॑ रे॒वाँ इ॑व॒ प्र च॑रा पु॒ष्टिमच्छ॑ ॥
अ॒ग्निम् । न । मा॒ । म॒थि॒तम् । सम् । दि॒दी॒पः॒ । प्र । च॒क्ष॒य॒ । कृ॒णु॒हि । वस्य॑सः । नः॒ ।
अथ॑ । हि । ते॒ । मदे॑ । आ । सो॒म॒ । मन्ये॑ । रे॒वान्ऽइ॑व । प्र । च॒र॒ । पु॒ष्टिम् । अच्छ॑ ॥
हे सोम पीतस्त्वं मा मां मथितमग्निंन अग्निमिव सन्दिदीपः सन्दीपय प्रचक्षयच चक्षुषः सन्धुक्षणेन नोस्मान् वस्यसोतिशयेन वसुमतः कृणुहि कुरु । अथाधुनाहि खलु ते त्वां हे सोम मदे मदाय मन्ये स्तौमि । तथासति रेवानिव धनवान् । इहइवेति संप्रत्यर्थे । पुष्टिमस्मत्पोषमच्छ प्रचराभिगच्छ ॥ ६ ॥