तम॒द्य राध॑से म॒हे चारुं॒ मदा॑य॒ घृष्व॑ये ।
एही॑मिन्द्र॒ द्रवा॒ पिब॑ ॥
तम् । अ॒द्य । राध॑से । म॒हे । चारु॑म् । मदा॑य । घृष्व॑ये ।
आ । इ॒हि॒ । ई॒म् । इ॒न्द्र॒ । द्रव॑ । पिब॑ ॥
तं पूर्वमन्त्रे उपवर्णितं चारुं चणरशीलं सोमं महे महते राधसेस्माकं धनाय तव घृष्वये शत्रूणां धर्षणशीलाय मदाय पिब । हे इन्द्र तदर्थं अद्य द्रव गच्छ शीघ्रं सोमपात्रं प्रति तदर्थमी मिदानीमेत्द्यागच्छ ॥ १२ ॥
यदिन्द्रप्रागिति द्वादशर्चंषष्ठं सूक्तं प्रगाथस्यार्षं गायत्रमैन्द्रम् । यदिन्द्रेत्यनुक्रान्तम् । विनियोगोलैङ्गिकः ।