मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ७३, ऋक् ४

संहिता

कुह॑ स्थ॒ः कुह॑ जग्मथु॒ः कुह॑ श्ये॒नेव॑ पेतथुः ।
अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥

पदपाठः

कुह॑ । स्थः॒ । कुह॑ । ज॒ग्म॒थुः॒ । कुह॑ । श्ये॒नाऽइ॑व । पे॒त॒थुः॒ ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

सायणभाष्यम्

हे अश्विनौ युवां कुह क्वस्थः भवथः इदानीं कुह क्व कुत्र जग्मथुः गच्छथः स्वेच्छया कुह क्ववा श्येनेव श्येनाविव शीघ्रपतनौ सन्तौ पेतथुः पतथः । एवमचिन्त्यस्वभावौ कृपयासंनिहितौ भवतमितिशेषः । तादृशयोरवोन्तिके भवतु ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८