पुरं॒ न धृ॑ष्ण॒वा रु॑ज कृ॒ष्णया॑ बाधि॒तो वि॒शा ।
अन्ति॒ षद्भू॑तु वा॒मवः॑ ॥
पुर॑म् । न । धृ॒ष्णो॒ इति॑ । आ । रु॒ज॒ । कृ॒ष्णया॑ । बा॒धि॒तः । वि॒शा ।
अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥
हे धृष्णो धर्षक सप्तवध्रे त्वं कृष्णया कर्षया विशा प्रवेशयन्त्या पेटिकया बाधितस्त्वं ततोनिर्गत्य तामेवारुज पीडय अश्विनोरनुग्रहात् । कमिव पुरंन यथा शत्रुः पुरं पिडयति एवं स्वयं स्वात्मानं प्रेष्यति । अथवा गोपवनः सप्तवध्रिमेवं ब्रवीति वां युवयोरवोरक्षणं गमनंवा समीपे तत्र त्रिषु वर्गेषु अन्तिषदित्युत्तरोर्धर्चोन्वितपदाध्याहारेण योज्यः ॥ १८ ॥
विशोविशोवइति पंचदशर्चं चतुर्थंसूक्तम् । अत्रेयमनुक्रमणिका-विशोविशोवः पञ्चोनाग्नेयं त्वनुष्टुम्मुखास्तृचाश्चत्वारोन्त्यास्तिस्रोनुष्टुभ आर्क्षस्य श्रुतर्वणोदानस्तुतिरिति । अनुवृत्तेर्गोपवनऋषिः आदितस्तृषु तृचेषु सर्वाः प्रथमाअनुष्टुभः द्वितीयातृतीये प्राग्वत्सप्रपरिभाषया गायत्र्यौ त्रयोदश्याद्यास्तिस्रोनुष्टुभः अस्योत्तरस्यचाग्निर्देवता अन्त्यस्तिस्रः श्रुतर्वनाम्रोराज्ञोदानस्तुतिः । व्योमविश्वदेवस्तुत्पञ्चशारदीयेष्विदंसूक्तमाज्य- शस्त्रम् । सूत्रितञ्च-विशोविशोवोअतिथिमित्याज्यमिति ।