आदीं॑ शव॒स्य॑ब्रवीदौर्णवा॒भम॑ही॒शुव॑म् ।
ते पु॑त्र सन्तु नि॒ष्टुरः॑ ॥
आत् । ई॒म् । श॒व॒सी । अ॒ब्र॒वी॒त् । औ॒र्ण॒ऽवा॒भम् । अ॒ही॒शुव॑म् ।
ते । पु॒त्र॒ । स॒न्तु॒ । निः॒ऽतुरः॑ ॥
इन्द्रेण पृष्टा शवसी माता आदनंतरमेव ईं एनमिन्द्रमब्रवीत् । किमिति उच्यते-और्णवाभमहीशुवमेतन्नामानावसुरौ तिष्ठतः तौ उक्तौ । अन्ये च तादृशाः हे पुत्र तव निष्ठुरो निस्तारणीयाः सन्त्विति ॥ २ ॥