क्षेति॒ क्षेमे॑भिः सा॒धुभि॒र्नकि॒र्यं घ्नन्ति॒ हन्ति॒ यः ।
अग्ने॑ सु॒वीर॑ एधते ॥
क्षेति॑ । क्षेमे॑भिः । सा॒धुऽभिः॑ । नकिः॑ । यम् । घ्नन्ति॑ । हन्ति॑ । यः ।
अग्ने॑ । सु॒ऽवीरः॑ । ए॒ध॒ते॒ ॥
हे अग्ने योमनुष्यः साधुभिः साधयद्भिः क्षेमेभिः पालनैः सह क्षेति स्वगृहे निवसति । तथा यं जनं नकिः नकेचन घ्नन्ति न हिंसन्ति । यएवं हन्ति शत्रून् स्वयमेव हन्ति समनुष्यस्तव स्तोता खलु अन्यथा तस्यैतावन्नघटते । ततः सः स्तोता सुवीरः शोभनपुत्रादियुक्तः सन् एधते आत्मीयगृहेषु धनादिभिर्वर्धते ॥ ९ ॥
आमेहवमिति नवर्चं पंचमं सूक्तं कृष्णोनामांगिरसऋषिः गायत्रीछन्दः एतदादीनि त्रीणिसूक्तानि अश्विदेवत्यानि । तथाचानुक्रान्तं-आमेकृष्ण- आश्विनंहीति । प्रातरनुवाकाश्विने क्रतौ गायत्रेछंदस्याश्विनशस्त्रे चेदंसूक्तम् । सूत्रितंव-उदीराथामामेहवमिति ।