अध॑ द्र॒प्सो अं॑शु॒मत्या॑ उ॒पस्थेऽधा॑रयत्त॒न्वं॑ तित्विषा॒णः ।
विशो॒ अदे॑वीर॒भ्या॒३॒॑चर॑न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्र॑ः ससाहे ॥
अध॑ । द्र॒प्सः । अं॒शु॒ऽमत्याः॑ । उ॒पऽस्थे॑ । अधा॑रयत् । त॒न्व॑म् । ति॒त्वि॒षा॒णः ।
विशः॑ । अदे॑वीः । अ॒भि । आ॒ऽचर॑न्तीः । बृह॒स्पति॑ना । यु॒जा । इन्द्रः॑ । स॒स॒हे॒ ॥
अध अथ द्रप्सोद्रुतगामी कृष्णः अंशुमत्यानद्याः उपस्थे समीपे तित्विषाणो दीप्यमानः सन् तन्वं आत्मीयं शरीरं अधारयत् परैरहिंस्यत्वेन बेभर्ति । यद्वा बलप्राप्त्यर्थं स्वशरीरमाहाशदिभिरपोषयत् तत्र इन्द्रोगत्वा बृहस्पतिना एतन्नामकेन देवेन युजा सहायेन अदेवीः अद्योतमानाः कृष्णरूपा- इत्यर्थः । यद्वा पापयुक्तत्वादस्तुत्याः आचरन्तीः आगच्छन्तीर्विशः असुरसोनाः अभिससहे जघान । तमवधीदित्यर्थः प्रसंगादवगम्यते ॥ १५ ॥