ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा॑ अभि॒स्वरा॑ ।
सु॒दी॒तयो॑ वो अ॒द्रुहोऽपि॒ कर्णे॑ तर॒स्विन॒ः समृक्व॑भिः ॥
ने॒मिम् । न॒म॒न्ति॒ । चक्ष॑सा । मे॒षम् । विप्राः॑ । अ॒भि॒ऽस्वरा॑ ।
सु॒ऽदी॒तयः॑ । वः॒ । अ॒द्रुहः॑ । अपि॑ । कर्णे॑ । त॒र॒स्विनः॑ । सम् । ऋक्व॑ऽभिः ॥
नेमिं अरान् यथा नेमिर्व्याप्नोति तद्वत्सर्वं व्याप्नुवन्तु तादृशं नवनशीलमिन्द्रं चक्षसा दर्शनमात्रेणैव नमन्ति काश्यपारेभाः स्तोतारावा नमस्कुर्वन्ति ततोविप्रामेधाविनः मेषं इन्द्रोमेषोभूत्वा मेधातिथिं स्वर्गमनयत् तस्मान्मेधातिथेर्मेषभूतमिन्द्रं अभिस्वरा अभिस्वरेण स्तोत्रेण प्रणमन्ति इदानीं यजमानः स्तोतॄनाह-अपिच सुदीतयः शोभनदीप्तयः अद्रुहः कस्याप्यद्रोग्धारो वोययं छान्दसोवसादेशः तरस्विनः कर्मसु स्तोत्रेषुवा त्वरायुक्ताः सन्तः इन्द्रस्य कर्णे श्रोत्रसमीपे ऋक्वभिः अर्चनयुक्तैर्मंत्रैः यद्वा ऋचोबह्व्यो येषुसन्ति तैः शस्त्रा- दिभिः संस्तुतइन्द्रोय था युष्मदीयानि स्तोत्रशस्त्रादीनि शृणोति तथा सम्यगभिष्टुतेत्यर्थः ॥ १२ ॥