विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॒ या च॒कर्थ॑ मघवन्निन्द्र सुन्व॒ते ।
पारा॑वतं॒ यत्पु॑रुसम्भृ॒तं वस्व॒पावृ॑णोः शर॒भाय॒ ऋषि॑बन्धवे ॥
विश्वा॑ । इत् । ता । ते॒ । सव॑नेषु । प्र॒ऽवाच्या॑ । या । च॒कर्थ॑ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । सु॒न्व॒ते ।
पारा॑वतम् । यत् । पु॒रु॒ऽस॒म्भृ॒तम् । वसु॑ । अ॒प॒ऽअवृ॑णोः । श॒र॒भाय॑ । ऋषि॑ऽबन्धवे ॥
स्वसमीपमागतमिन्द्रं दृष्ट्वा सन्तुष्टऋषिरिन्द्रस्य विविधानि कर्माणि दानंच विश्वेत्तातइत्यनेन द्वृचेन स्तौति-हे मघवन्निन्द्र त्वं सवनेषु यज्ञेषु सुन्वते सोमाभिषवं कुर्वते यजमानाय या यानि कर्माणि चकर्थ अकरोः ते तव ता तानि कर्माणि प्रवाच्या प्रवक्तव्यानि विश्वेत् अनन्तान्येव । किंच त्वं पारावतं परावन्नामकस्य कस्यचिच्छत्रोः स्वभूतं यद्वृसु धनमस्ति तत् ऋषिबन्धवे शरभाय शरभनाम्ने ऋषये अपावृणोः अपवृ- तवानसि पुरुसंभृतं यथा बहुसंभृतं भवति ॥ ६ ॥