अ॒भि वह्नि॒रम॑र्त्यः स॒प्त प॑श्यति॒ वाव॑हिः ।
क्रिवि॑र्दे॒वीर॑तर्पयत् ॥
अ॒भि । वह्निः॑ । अम॑र्त्यः । स॒प्त । प॒श्य॒ति॒ । वाव॑हिः ।
क्रिविः॑ । दे॒वीः । अ॒त॒र्प॒य॒त् ॥
योवह्निः यज्ञस्य धुरोवोढा अमर्त्यो मनणरहितो वावहिः देवानां तृप्तेरत्यन्तं वोढाच सोमः सप्तनदीः अभिपश्यति सोयं क्रिविः कूपरूपेण पुर्णोवस्थितःसन् देवीर्नदीरतर्पयत् तर्पयति ॥ ६ ॥