ए॒त उ॒ त्ये अ॑वीवश॒न्काष्ठां॑ वा॒जिनो॑ अक्रत ।
स॒तः प्रासा॑विषुर्म॒तिम् ॥
ए॒ते । ऊं॒ इति॑ । त्ये । अ॒वी॒व॒श॒न् । काष्ठा॑म् । वा॒जिनः॑ । अ॒क्र॒त॒ ।
स॒तः । प्र । अ॒सा॒वि॒षुः॒ । म॒तिम् ॥
त्ये ते एतउ एतेएव सोमाः अवीवशन् कामयन्ते यज्ञम् । कांत्याच वाजिनो बलवन्तोन्नवन्तोवा सोमाः काष्ठां अक्रत निवासस्थानं अकुर्वन् द्रोण- कलशादुद्गताग्रहानित्यर्थः । सतोयजमानस्य स्तोतुर्वा मतिं बुद्धिं स्तुतिंवा प्रासाविषुः प्रैरयन् ॥ ७ ॥
एतेसोमासइति सप्तर्चं द्वाविंशं सूक्तं ऋष्याद्याः पूर्ववत् । एतेसोमासइत्यनुक्रान्तम् । गतोविनियोगः ।