मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् २८, ऋक् ६

संहिता

ए॒ष शु॒ष्म्यदा॑भ्य॒ः सोमः॑ पुना॒नो अ॑र्षति ।
दे॒वा॒वीर॑घशंस॒हा ॥

पदपाठः

ए॒षः । शु॒ष्मी । अदा॑भ्यः । सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ ।
दे॒व॒ऽअ॒वीः । अ॒घ॒शं॒स॒ऽहा ॥

सायणभाष्यम्

एषसोमः शुष्मी बलवान् अदाभ्यः अदंभनीयः पुनानः पूयमानः अर्षति गच्छति देवावीर्देवानामविता अघशंसहा अघान् शंसतीत्यघशंसास्तेषां हन्ता ॥ ६ ॥

प्रास्येति षळृचं पंचमं सूक्तं नृमेधस्यांगिरसस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रम्यतेच-प्रास्यनृमेधइति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८