उप॑ प्रि॒यं पनि॑प्नतं॒ युवा॑नमाहुती॒वृध॑म् ।
अग॑न्म॒ बिभ्र॑तो॒ नमः॑ ॥
उप॑ । प्रि॒यम् । पनि॑प्नतम् । युवा॑नम् । आ॒हु॒ति॒ऽवृध॑म् ।
अग॑न्म । बिभ्र॑तः । नमः॑ ॥
प्रियं सर्वस्य प्रीणयितारं पनिप्नतमत्यन्तं शब्दायमानं युवानं तरुणमाहुतीवृधं आहुतिभिर्व- र्धनीयं पवमानं वयं नमोहविर्नमस्कारंवा बिभ्रतोधारयन्तःसन्तःउपागन्म उपगच्छेम । गमेर्लुङि मंत्रेघसेतिच्लेर्लुकि सति म्वोश्चेतिनकारः । पनिप्रतं पनेःस्तुत्यर्थस्य यङ्लुकिरूपं दाधर्तिदर्धर्ति- इतिसूत्रे इतिकरणस्य प्रदर्शनार्थत्वादत्राभ्यासस्य निगागमउपधालोपश्च निपात्यते ॥ २९ ॥