परा॒ व्य॑क्तो अरु॒षो दि॒वः क॒विर्वृषा॑ त्रिपृ॒ष्ठो अ॑नविष्ट॒ गा अ॒भि ।
स॒हस्र॑णीति॒र्यति॑ः परा॒यती॑ रे॒भो न पू॒र्वीरु॒षसो॒ वि रा॑जति ॥
परा॑ । विऽअ॑क्तः । अ॒रु॒षः । दि॒वः । क॒विः । वृषा॑ । त्रि॒ऽपृ॒ष्ठः । अ॒न॒वि॒ष्ट॒ । गाः । अ॒भि ।
स॒हस्र॑ऽनीतिः । यतिः॑ । प॒रा॒ऽयतिः॑ । रे॒भः । न । पू॒र्वीः । उ॒षसः॑ । वि । रा॒ज॒ति॒ ॥
अरुष आरोचमानः कविः क्रान्तप्रज्ञः सोमः व्यक्तः विस्पष्टधारायुक्तः यद्वा वसतीवरी भिर्विशेषेणसिक्तःसन् दिवोन्तरिक्षात् परा परङ्मुखमागच्छति पवित्रात् द्रोणकलशं पराग च्छतीत्यर्थः । वृषा वृषभस्त्रिपृष्ठः त्रीणि सवनानि पृष्ठानि अस्येति त्रिपृष्ठः सोमस्य सर्वेषु विद्यमानत्वात् तस्मात् त्रिपृष्ठः सोमः गाः स्तोतृभिः क्रियमाणाः स्तुतीरभिलक्ष्य अनविष्ट शब्दायते । नुश्ब्दे । किंच सहस्रनीतिः सहस्रनयनः प्रयोगबाहुल्यापेक्षं ग्रहेषु चमसेषुच सह स्रविधनयनत्वं अतएव यतिः पात्रादीनि प्रत्यागंता परायति कलशान् प्रति परागंता भवति सोयं पूर्वीर्बह्वीरुषसः कालाध्वनोरितिद्वितीया बहुषूषःकालेषु रेभोन रेभृशब्दे शब्दायमा- नः स्तोतेव विराजति विशेषेण दीप्यते । तेषु सोमस्याभिषूयमाणत्वात् स्तोता खलु देवा- नां स्तुतिकरणेन राजति ॥ ७ ॥