महि॒ प्सर॒ः सुकृ॑तं सो॒म्यं मधू॒र्वी गव्यू॑ति॒रदि॑तेरृ॒तं य॒ते ।
ईशे॒ यो वृ॒ष्टेरि॒त उ॒स्रियो॒ वृषा॒पां ने॒ता य इ॒तऊ॑तिरृ॒ग्मियः॑ ॥
महि॑ । प्सरः॑ । सुऽकृ॑तम् । सो॒म्यम् । मधु॑ । उ॒र्वी । गव्यू॑तिः । अदि॑तेः । ऋ॒तम् । य॒ते ।
ईशे॑ । यः । वृ॒ष्टेः । इ॒तः । उ॒स्रियः॑ । वृषा॑ । अ॒पाम् । ने॒ता । यः । इ॒तःऽऊ॑तिः । ऋ॒ग्मियः॑ ॥
ऋतं सत्यभूतं यज्ञं यते गच्छते तस्माइन्द्राय सुकृतं सुष्टुसंस्कृतं सोम्यं सोममयं महि महत् प्रभूतं मधु मधुररसं प्सरः भक्षणं पानीयं भवति । प्साभक्षणे । किंच तस्माद्यज्ञं प्रत्यागच्छतां इन्द्रादीनां अदितेरदीनायाः प्रुथिव्याः गव्यूतिर्मार्गश्च उर्वी विस्तीर्णोभवति इन्द्रः शतसहस्रसंख्याकैर्हरिभिः सह गन्तुं मार्गेविस्तीर्णोभवदित्यर्थः । यइन्द्रः इतः इमं लोकं प्रत्यापतन्त्या वृष्टेः ईशे ईश्वरोभवति । तथा उस्रियः उस्रियोगोनाम गोभ्योहितः अपामुद- कानां वृषा वर्षको यज्ञस्य नेता नायकः इतऊतीः इममस्मदीयं यज्ञं प्रति ऊतिर्गमनं यस्य सतथोक्तः इतोगच्छन् यइन्द्रः ऋग्मियः ऋगर्हःस्तोतव्योभवति । तस्माअयंसोमः पातव्यो- भवतीति ॥ ३ ॥ प्रवर्ग्येभिष्टवे आत्मन्वन्नभइत्येषा । सूत्रितंच—तदुप्रयक्षतममस्यकर्मात्मन्वन्नभोदुह्यतेघृतं- पयइति ।