यं त्वा॑ वाजिन्न॒घ्न्या अ॒भ्यनू॑ष॒तायो॑हतं॒ योनि॒मा रो॑हसि द्यु॒मान् ।
म॒घोना॒मायु॑ः प्रति॒रन्महि॒ श्रव॒ इन्द्रा॑य सोम पवसे॒ वृषा॒ मदः॑ ॥
यम् । त्वा॒ । वा॒जि॒न् । अ॒घ्न्याः । अ॒भि । अनू॑षत । अयः॒ऽहतम् । योनि॑म् । आ । रो॒ह॒सि॒ । द्यु॒ऽमान् ।
म॒घोना॑म् । आयुः॑ । प्र॒ऽति॒रन् । महि॑ । श्रवः॑ । इन्द्रा॑य । सो॒म॒ । प॒व॒से॒ । वृषा॑ । मदः॑ ॥
हे वाजिन् अन्नवत् सोम यं त्वां अघ्र्या अहननीयागावो अभ्यनूषत अभिष्टुवन्ति आशिरार्थंस्थिताः शब्दायन्तइत्यर्थः । सत्वं अयोहतं अयइतिहिरण्यनाम तेन तद्वान् पाणि र्लक्ष्यते हिरण्मयेनपाणिनाहतं संस्कृतं योनिं स्थानमारोहसि । द्युमान् दीप्तःसन् । अभियो- निमयोहतमिति ह्युक्तम् । किंच हे सोम मघोनां हविष्मतां यजमानानां आयुरायुष्यं महि- महत् श्रदोन्नं यशोवा प्रतिरन् वर्धयन्निन्द्रायेन्द्रार्थं पवसे पूयसे । वृषा वर्षको मदोमदकर- श्च त्वम् ॥ २ ॥