तं त्वा॑ ह॒स्तिनो॒ मधु॑मन्त॒मद्रि॑भिर्दु॒हन्त्य॒प्सु वृ॑ष॒भं दश॒ क्षिपः॑ ।
इन्द्रं॑ सोम मा॒दय॒न्दैव्यं॒ जनं॒ सिन्धो॑रिवो॒र्मिः पव॑मानो अर्षसि ॥
तम् । त्वा॒ । ह॒स्तिनः॑ । मधु॑ऽमन्तम् । अद्रि॑ऽभिः । दु॒हन्ति॑ । अ॒प्ऽसु । वृ॒ष॒भम् । दश॑ । क्षिपः॑ ।
इन्द्र॑म् । सो॒म॒ । मा॒दय॑न् । दैव्य॑म् । जन॑म् । सिन्धोः॑ऽइव । ऊ॒र्मिः । पव॑मानः । अ॒र्ष॒सि॒ ॥
तं तादृशं मधुमन्तं मधुररसं वृषभं कामानांवर्षकं त्वा त्वां हस्तिनः सुहस्तस्य दश- क्षिपोंगुलयः अद्रिभिर्ग्रावभिरप्सु दुहंति । तादृश हेसोम इन्द्रं अन्यं दैव्यं जनं देवसंबन्धिनं संघं मादयन् सिंधोरूर्मिरिव पवमानः पूयमानः सन्नर्षसि गच्छसि ॥ ५ ॥
प्रसोमस्येति पंचर्चंचतुर्दशंसूक्तं ऋषिदैवतेपूर्ववत् अंत्यात्रिष्टुप् शिष्टाजगत्यः । प्रसोम- स्येत्यनुक्रान्तम् । गतोविनियोगः ।