क॒विर्वे॑ध॒स्या पर्ये॑षि॒ माहि॑न॒मत्यो॒ न मृ॒ष्टो अ॒भि वाज॑मर्षसि ।
अ॒प॒सेध॑न्दुरि॒ता सो॑म मृळय घृ॒तं वसा॑न॒ः परि॑ यासि नि॒र्णिज॑म् ॥
क॒विः । वे॒ध॒स्या । परि॑ । ए॒षि॒ । माहि॑नम् । अत्यः॑ । न । मृ॒ष्टः । अ॒भि । वाज॑म् । अ॒र्ष॒सि॒ ।
अ॒प॒ऽसेध॑न् । दुः॒ऽइ॒ता । सो॒म॒ । मृ॒ळ॒य॒ । घृ॒तम् । वसा॑नः । परि॑ । या॒सि॒ । निः॒ऽनिज॑म् ॥
हे सोम कविः क्रान्तदर्शी सन् वेधस्या यागविधानेच्छया माहिनं मंहनीयं पवित्रं पर्येषि परिगच्छसि पश्चान्मृष्टः प्रक्षालितः अत्योन अश्वइव वाजं संग्राममभ्यर्षसि । हे सोम दुरिता अस्माकं दुरितानि अपसेधन् परिहरन् मृळ्य सुखय । घृतमुदकं वसानआच्छादयन् परियासि अभिगच्छसि । किं निर्णिजं निर्णेजकं पवित्रं ॥ २ ॥