अत्यो॒ न हि॑या॒नो अ॒भि वाज॑मर्ष स्व॒र्वित्कोशं॑ दि॒वो अद्रि॑मातरम् ।
वृषा॑ प॒वित्रे॒ अधि॒ सानो॑ अ॒व्यये॒ सोमः॑ पुना॒न इ॑न्द्रि॒याय॒ धाय॑से ॥
अत्यः॑ । न । हि॒या॒नः । अ॒भि । वाज॑म् । अ॒र्ष॒ । स्वः॒ऽवित् । कोश॑म् । दि॒वः । अद्रि॑ऽमातरम् ।
वृषा॑ । प॒वित्रे॑ । अधि॑ । सानौ॑ । अ॒व्यये॑ । सोमः॑ । पु॒ना॒नः । इ॒न्द्रि॒याय॑ । धाय॑से ॥
अत्योन अश्वइव हियानःप्रेर्यमाणोवाजं संग्रामं अभ्यर्ष अभिगच्छ । तथा स्वर्वित् सर्व- वित् कोशं द्रोणकलशं दिवोद्युलोकात् अद्रिमातरं अद्रिर्मेघः तेनतज्जन्यमुदकंलक्ष्यते तस्य निर्मातारमभ्यर्ष । अथप्रत्यक्षकृतः वृषा वर्षकः सोमः अव्यये अविमये पवित्रे दशापवित्रे अधिसानौ अधीतिसप्तम्यर्थानुवादी समुच्छ्रिते तस्मिन् पुनानः पूयमानोभवति । किमर्थं धायसे धारकाय इन्द्रियाय तदर्थम् ॥ ३ ॥