पव॑स्व सोम क्रतु॒विन्न॑ उ॒क्थ्योऽव्यो॒ वारे॒ परि॑ धाव॒ मधु॑ प्रि॒यम् ।
ज॒हि विश्वा॑न्र॒क्षस॑ इन्दो अ॒त्रिणो॑ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑ः ॥
पव॑स्व । सो॒म॒ । क्र॒तु॒ऽवित् । नः॒ । उ॒क्थ्यः॑ । अव्यः॑ । वारे॑ । परि॑ । धा॒व॒ । मधु॑ । प्रि॒यम् ।
ज॒हि । विश्वा॑न् । र॒क्षसः॑ । इ॒न्दो॒ इति॑ । अ॒त्रिणः॑ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥
हे सोम नोस्माकं क्रतुवित् कर्मज्ञः स्तुतिज्ञइत्यर्थः उक्थ्यः स्तुत्यः यतः स्तुत्यः अतः क्रतुविदित्यभिप्रायः ईदृशस्त्वं नोस्माकं यागाय पवस्व स्रव रसं अव्योवारे दशापवित्रे प्रियं मधु परिधाव परिक्षर हे इन्दो दीप्त सोम अत्रिणो भक्षकान् विश्वान् रक्षसोजहि सुवीराः सुपुत्रावयं विदथे यज्ञे बृहन्महद्धनं वदेम उच्चारयेम याचेमेत्यर्थः । यद्वा प्रभूतं स्तोत्रं वदेमः ॥ ४८ ॥
प्रतुद्रवेतिनवर्चं द्वितीयंसूक्तं काव्यस्योशनसआर्षं अनादेशपरिभाषया त्रैदुभं पवमान- सोमदेवताकम् । तथाचानुक्रान्तं—प्रतुनवोशनाइति । जागतमूर्ध्वं प्रागुशनसइतिवचनाज्जगत्य- धिकारोनिवृत्तः । गतोविनियोगः ।