प्रो स्य वह्नि॑ः प॒थ्या॑भिरस्यान्दि॒वो न वृ॒ष्टिः पव॑मानो अक्षाः ।
स॒हस्र॑धारो असद॒न्न्य१॒॑स्मे मा॒तुरु॒पस्थे॒ वन॒ आ च॒ सोमः॑ ॥
प्रो इति॑ । स्यः । वह्निः॑ । प॒थ्या॑भिः । अ॒स्या॒न् । दि॒वः । न । वृ॒ष्टिः । पव॑मानः । अ॒क्षा॒रिति॑ ।
स॒हस्र॑ऽधारः । अ॒स॒द॒त् । नि । अ॒स्मे इति॑ । मा॒तुः । उ॒पऽस्थे॑ । वने॑ । आ । च॒ । सोमः॑ ॥
प्र उ इति निपातद्वयसमुदायएकोनिपातः । प्रो अस्यान् प्रस्यन्दते स्यः सवह्निः वो- ढा पथ्याभिः यज्ञमार्गैः दिवोनवृष्टिः दिवः सकाशात् वृष्टिरिव पवमानःसन् अक्षाः व्या प्नोषि । सोयंसोमः सहस्रधारोबहुधारःसन् अस्मे अस्मासु न्यसदत् निसीदति मातुः दशाप वित्रस्य उपस्थे द्युलोकस्यवा उपस्थे अथवा वने सोमः आनिषीदति ॥ १ ॥