शिशुं॑ जज्ञा॒नं ह॑र्य॒तं मृ॑जन्ति शु॒म्भन्ति॒ वह्निं॑ म॒रुतो॑ ग॒णेन॑ ।
क॒विर्गी॒र्भिः काव्ये॑ना क॒विः सन्त्सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न् ॥
शिशु॑म् । ज॒ज्ञा॒नम् । ह॒र्य॒तम् । मृ॒ज॒न्ति॒ । शु॒म्भन्ति॑ । वह्नि॑म् । म॒रुतः॑ । ग॒णेन॑ ।
क॒विः । गीः॒ऽभिः । काव्ये॑न । क॒विः । सन् । सोमः॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रेभ॑न् ॥
शिशुं इदानीमुत्पन्नत्वात् शिशुवत् तिष्ठन्तं यद्वा पापानि तनूकुर्वन्तं विनाशयन्तंजज्ञानं प्रा- दुर्भूर्त अतएवहर्यतं हर्यगतिकान्त्योः । भृमृदृशीत्यादिनाअतच् । सर्वैः काम्यमानं सोमं मृज न्ति मरुतः शोधयन्ति । किंच वह्निं वोढारं सोमं गणेनात्मीयेन सप्तसंख्याकेनगणेन शुं- भन्ति अलंकुर्वन्ति । ततः कविः क्रान्तप्रज्ञः सोमः काव्येन कविकर्मणैव कविः शब्दोपेतः सन् रेभन् शब्दायमानः गीर्भिः स्तुतिभिः सह पवित्रं अत्येति अतीत्यगच्छति ॥ १७ ॥