आ ते॒ रुच॒ः पव॑मानस्य सोम॒ योषे॑व यन्ति सु॒दुघा॑ः सुधा॒राः ।
हरि॒रानी॑तः पुरु॒वारो॑ अ॒प्स्वचि॑क्रदत्क॒लशे॑ देवयू॒नाम् ॥
आ । ते॒ । रुचः॑ । पव॑मानस्य । सो॒म॒ । योषा॑ऽइव । य॒न्ति॒ । सु॒ऽदुघाः॑ । सु॒ऽधा॒राः ।
हरिः॑ । आऽनी॑तः । पु॒रु॒ऽवारः॑ । अ॒प्ऽसु । अचि॑क्रदत् । क॒लशे॑ । दे॒व॒ऽयू॒नाम् ॥
हे सोम पवमानस्य पूयमानस्य ते तव स्वभूताः योषेव स्त्रीयथा पुत्राणां पयोदोग्धि तद्वत् यजमानानां धनादिकस्य सुदुघाः सुष्ठुदोग्ध्र्यः सुधाराः शोभनधारोपेताः रुचोदीप्तयः आयन्तिपात्रादीन्यागछन्ति । किंच हरिर्हरितवर्णः आनीतः ऋत्विग्भिः पुरुवारः बहुधाव- रणीयः सोमः अप्सु वसतीवरीषु देवयूनां देवानिच्छतां यजमानानां स्वभूते कलशे द्रो- णाख्येच अचिक्रदत् पुनःपुनः क्रन्दते शब्दायते ॥ २४ ॥
षष्ठेनुवाके सप्तसूक्तानि । तत्र अस्यप्रेषेत्यष्टापंचाशदृचं प्रथमंसूक्तं त्रैष्टुभं पवमानसोमदे- वताकं ततः आद्यस्यतृचस्य मैत्रावरुणोवसिष्ठऋषिः द्वितीयस्येन्द्रप्रमतिर्नाम तृतीयस्यवृष- गणाः चतुर्थस्यमन्युः पंचमस्योपमन्युः षष्ठस्यव्याघ्रपात् सप्तमस्यशक्तिः अष्टमस्यकर्णश्रुत् नवमस्य मृळीकः दशमस्यवसुक्रः एतेसर्वेवसिष्ठगोत्राः एवंत्रिंशदृचोगताः अथ चतुर्दशाना- मृचां शक्तिपुत्रः पराशरऋषिः शिष्टानामांगिरसःकुत्सः । तथानुक्रम्यते—अस्यप्रेषाष्टापंचाश- दाद्यंतृचं वसिष्ठोपश्यदुत्तरान्नव पृथग्वसिष्ठाः इन्द्रप्रमतिर्वृषगणोमन्युरुपमन्युर्व्याघ्रपाच्छक्तिः कर्णश्रुन्मृळीकोवसुक्रइति चतुर्दशपराशरोंत्याः कुत्सइति । गतोविनियोगः ।