सोमः॑ पुना॒नो अ॒व्यये॒ वारे॒ शिशु॒र्न क्रीळ॒न्पव॑मानो अक्षाः ।
स॒हस्र॑धारः श॒तवा॑ज॒ इन्दु॑ः ॥
सोमः॑ । पु॒ना॒नः । अ॒व्यये॑ । वारे॑ । शिशुः॑ । न । क्रीळ॑न् । पव॑मानः । अ॒क्षा॒रिति॑ ।
स॒हस्र॑ऽधारः । श॒तऽवा॑जः । इन्दुः॑ ॥
पुनानः पूयमानः पवमानः पूतः सोमः अव्यये अविमये वारे वाले पवित्रे शिशुर्न शिशुरिव क्रीळन् इतस्ततः संक्रीडमानः सन् अक्षाः क्षरति । कीदृशः सहस्रधारः बहुधा- रायुक्तः शतवाजोबहुबलः इन्दुर्दीप्तः ॥ १० ॥