मण्डलवर्गीकरणम्

मण्डलम् १०, सूक्तम् ८, ऋक् ४

संहिता

उ॒षौ॑षो॒ हि व॑सो॒ अग्र॒मेषि॒ त्वं य॒मयो॑रभवो वि॒भावा॑ ।
ऋ॒ताय॑ स॒प्त द॑धिषे प॒दानि॑ ज॒नय॑न्मि॒त्रं त॒न्वे॒३॒॑ स्वायै॑ ॥

पदपाठः

उ॒षःऽउ॑षः । हि । व॒सो॒ इति॑ । अग्र॑म् । एषि॑ । त्वम् । य॒मयोः॑ । अ॒भ॒वः॒ । वि॒भाऽवा॑ ।
ऋ॒ताय॑ । स॒प्त । द॒धि॒षे॒ । प॒दानि॑ । ज॒नय॑न् । मि॒त्रम् । त॒न्वे॑ । स्वायै॑ ॥

सायणभाष्यम्

हेवसो स्वेन तेजसा सर्वस्याच्छादयितः वसुमन्वा प्रशस्यवाग्ने त्वं उषउषः सर्वस्याए- वोषसः अग्रं पूर्वं एषि प्राप्नोषि । अपिच यमयोर्युग्मयोः परस्परमवियुक्तयोः अहोरात्रयोः विभावा दीप्तिमान् अभवः भवसि । तन्वे स्वायै आत्मीयात् शरीरात् मित्रमादित्यं जन- यन् उत्पादयन् सप्तपदानि सप्तसंख्याकानि धिष्ण्यादिस्थानानि ऋताय यज्ञार्थं दधिषे धारयसि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः