धनु॒र्हस्ता॑दा॒ददा॑नो मृ॒तस्या॒स्मे क्ष॒त्राय॒ वर्च॑से॒ बला॑य ।
अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वा॒ः स्पृधो॑ अ॒भिमा॑तीर्जयेम ॥
धनुः॑ । हस्ता॑त् । आ॒ऽददा॑नः । मृ॒तस्य॑ । अ॒स्मे इति॑ । क्ष॒त्राय॑ । वर्च॑से । बला॑य ।
अत्र॑ । ए॒व । त्वम् । इ॒ह । व॒यम् । सु॒ऽवीराः॑ । विश्वाः॑ । स्पृधः॑ । अ॒भिऽमा॑तीः । ज॒ये॒म॒ ॥
मृतस्य क्षत्रियस्य हस्तात् धनुराददानः किमर्थं अस्मै अस्माकं क्षत्राय प्रजापालनस- मर्थाय बलाय वर्चसे तेजसे बलाय सेनालक्षणाय च धनुराददानोहं ब्रवीमीति शेषः किमिति त्वं अत्रैवास्मिन् स्थाने एव भव । वयं च इहास्मिन् लोके सुवीराः सुपुत्रयुक्ता- भवन्तः विश्वाः सर्वान् अभिमातीः अभिमन्यमानान् स्पृधः संघर्षयित्रीन् बाधकान् शत्रून् जयेम सहेमहि ॥ ९ ॥ दीक्षितमरणे उपसर्पमातरमित्याद्याश्चतस्रः शंसनीयाः । सूत्रितंच—उपसर्पमातरंभूमि मेतामितिचतस्रः सोमएकेभ्यइति । उपसर्पेत्यनया संचितान्यस्थीनिगर्तेनिदध्युः ।