उ॒च्छ्वञ्च॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रय॑न्ताम् ।
ते गृ॒हासो॑ घृत॒श्चुतो॑ भवन्तु वि॒श्वाहा॑स्मै शर॒णाः स॒न्त्वत्र॑ ॥
उ॒त्ऽश्वञ्च॑माना । पृ॒थि॒वी । सु । ति॒ष्ठ॒तु॒ । स॒हस्र॑म् । मितः॑ । उप॑ । हि । श्रय॑न्ताम् ।
ते । गृ॒हासः॑ । घृ॒त॒ऽश्चुतः॑ । भ॒व॒न्तु॒ । वि॒श्वाहा॑ । अ॒स्मै॒ । श॒र॒णाः । स॒न्तु॒ । अत्र॑ ॥
पांसुभिः प्रच्छाद्य एतां पठन्ति उच्छ्वंचमानाअस्थिकुंभमवष्टभ्य ऊर्ध्वं गच्छन्ती पृ- थिवी सुतिष्ठतु प्रतिष्ठिता भवतु । किंच सहस्रं सहस्रसंख्याकाः मितः प्रक्षिप्ताः मिनोतेरौ- णादिके कर्मणि क्विपि तुगागमः ततोजस् यद्वा सहस्रं तृतीयार्थे प्रथमा मितइतिनिष्ठान्तं रूपं व्यत्ययेन बहुवचनस्य एकवचनं स्वरोवृषादित्वात् द्रष्टव्यः सहस्रेण संमिताः बहुसं ख्याकाः पर्थिवाः पांसवः उपश्रयन्तां एनमुपसेवन्तां संपरिवार्यतिष्ठन्त्वित्यर्थः । हिरवधा- रणे । तथा ते पांसवः अस्मै गृहासः गृहाभवन्तः घृतश्चुतः घृतस्योदकस्य सर्पिषोवा क्षारयितारोभवन्तु । अत्रास्मिन् लोके विश्वाहा सर्वेष्वहःसु सर्वदास्मै अस्य शरणाः सन्तु आश्रयभूताभवन्तु ॥ १२ ॥ उत्तेस्तभ्रामीति कपालेनास्थीन्यपिदध्यात् । सूत्रितंच—उत्तेस्तभ्रामीतिकपालेनापिधाये- ति ।