अ॒र्यो वि॒शां गा॒तुरे॑ति॒ प्र यदान॑ड्दि॒वो अन्ता॑न् ।
क॒विर॒भ्रं दीद्या॑नः ॥
अ॒र्यः । वि॒शाम् । गा॒तुः । ए॒ति॒ । प्र । यत् । आन॑ट् । दि॒वः । अन्ता॑न् ।
क॒विः । अ॒भ्रम् । दीद्या॑नः ॥
विशां यजमानमनुष्याणांअर्योगन्तव्यः गातुर्गमनशीलोग्निर्दीद्यानोदीप्यमानः यद्यदा एति ऊर्ध्वं गच्छति तदा दिवोद्युलोकस्य अन्तान् पर्यन्तान् कविर्मेधावी सोग्निः प्रानट् प्रकर्षेण व्याप्नोति अभ्रं मेघोपलक्षितमन्तरिक्षं च व्याप्नोति ॥ ४ ॥