माकु॒ध्र्य॑गिन्द्र शूर॒ वस्वी॑र॒स्मे भू॑वन्न॒भिष्ट॑यः ।
व॒यंव॑यं त आसां सु॒म्ने स्या॑म वज्रिवः ॥
मा । अ॒कु॒ध्र्य॑क् । इ॒न्द्र॒ । शू॒र॒ । वस्वीः॑ । अ॒स्मे इति॑ । भू॒व॒न् । अ॒भिष्ट॑यः ।
व॒यम्ऽव॑यम् । ते॒ । आ॒सा॒म् । सु॒म्ने । स्या॒म॒ । व॒ज्रि॒ऽवः॒ ॥
हे शूर विक्रान्तेन्द्र अस्मे अस्माकं स्वभूताः वस्वीर्महत्यः अभिष्टयः आभिमुख्येष्टयः इज्याः यद्वा आभिमुख्येच्छा अभीप्सितप्रार्थनाः कुध्र्यक् कुत्सिताः विफलाइत्यर्थः माभूवन् । किं तर्हि हे वज्रिवः वज्रिन्निन्द्र ते तव प्रसादात् वयंवयमृत्विग्यजमामाः द्विर्वचनमतित्व- राप्रदर्शनार्थं आसामिज्यामिच्छानां वा संबन्धिनि सुम्ने सुखे अवस्थिताः स्याम भवेम वयमभिष्टिजन्येन दृष्टादृष्टुसुखेन युक्ताः शीघ्रं भवेमेत्याशास्महे इत्यर्थः ॥ १२ ॥